SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४५६ हैमनूतनलघुप्रक्रिया इत्येतेभ्यो द्वयोरेकस्मिन् निर्धार्येऽर्थे वर्तमानेभ्यो डतरः प्रत्ययो भवति । यतरो भवतोः कठः ततर आगच्छतु । कतरो भवतोः कठः। अन्यतरो भवतोः कठः। महाविभाषया, यो भवतोः कठ इत्याद्यपि । : बहूनां प्रश्ने डतमश्च वा ७३५४॥ यत्तत्किमन्येभ्यो बहूनां मध्ये निर्धायेऽर्थे वर्तमानेभ्यः प्रश्नविषये डतमः प्रत्ययो वा भवति चकाराद् डतरश्च । यतमो यतरो वा भवतां कठः ? । कतमो देवदत्तः ? कतरो देवदत्तः ? अन्यतमोऽन्यतरौ वा भवतां कठः ? वावचनादकपि । यको भवतां कठः सक आगच्छतु ? । को भवतां कठः ? महाविभाषया डतमादर्न भवत्यपि । यो भवतां कठः स आगच्छतु । .. वैकात् ७।३॥५५॥ एकशब्दाद् बहूनामेकस्मिन् निधार्येऽर्थे वर्तमानाद - डतमः प्रत्ययो वा भवति । एकतमो भवतां कठः । पक्षेऽगपि । एककः। महाविभाषया -एको भवतां कठः॥ .. प्रायोऽतोयसट मात्रट् ७।२।१५५॥ अतुप्रत्ययान्तात्स्वार्थे द्वयसटू मात्रट् इत्येतौ प्रत्ययौ भवतः प्रायः। यावदेव यावन्मात्रम् , तावद् द्वयसम् , तावन्मात्रम् । कियद् द्वयसम् , कियन्मात्रम् ॥ इति तद्धितप्रक्रिया। .. १-डित्त्वादन्त्यस्वरादिलोपः । २-किमः क इति साकोऽपि कादेशः । ३-प्रत्यये चेति पञ्चमः, धुट इति तृतीयः ॥
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy