________________
हैमनूतनलघुप्रक्रिया
४५५
तूष्णीकाम् ||३|३२|| तूष्णीमो मकारात्पूर्व का इत्यागमो निपात्यते । कुत्सितादि तूष्णीं तूष्णीकाम् तिष्ठति ।
कुत्सिताल्पाज्ञाते | ७|३|३३|| कुत्सिताल्पाज्ञातोपाधिकेऽर्थे वर्त्तमानात् त्यादेर्नाम्नश्च यथायोगं कबादयः प्रत्यया भवन्ति । कुत्सितम् - निन्दितम् अल्पं महत्प्रतियोगि । अज्ञातं प्रकृत्युपात्तधर्मव्यतिरेकेण केनचित्स्वत्वादिना धर्मेणाऽनिश्चितम् । कुत्सितोऽल्पोऽज्ञातो वाऽश्वः अश्वकः । घृतकम् । पचतकि, सर्वके, उच्चकैः, तूष्णीकाम् ॥
अनुकम्पातद्युक्तनीत्योः | ७|३|३४|| अनुकम्पायांतद्युक्तनीतौ च गम्यमानायां यथायोगं क़बादयः प्रत्यया भवन्ति । पुत्रकः, बालकः । शनकैः । एहकि इत्यादि ॥
ह्रस्वे |७|३|४६ || ह्रस्वेऽर्थे वर्त्तमानाच्छन्दरूपात् यथायोगं कवादयः प्रत्यया भवन्ति । ह्रस्वः पटः पटकः, शाटकः । ह्रस्त्रं-दीर्घप्रतियोगी ॥
वैकाद् द्वयोर्निधयें उत्तरः | ७|३|५२ ॥ एकशब्दाद् द्वयोर्मध्ये निर्धार्येऽर्थे वर्त्तमानाद् इतरः प्रत्ययो वा भवति । एक एवैकतरो भवतोः कठः, पटुर्गन्ता देवदत्तो, वेत्यादि । पक्षे एककः, अत्राकू । एक इत्यपि ॥
यत्तत्किमन्यात् |७|३|५३ ॥ यत् तत् किम् अन्य