________________
४५२
हैमनूतनलघुप्रक्रिया साधिष्ठः, साधीयान् । नेदिष्ठः, नेदीयान् । प्रियस्थिरेत्यादिना प्राधादेशे प्रेष्ठः, प्रेयान् , स्थेष्ठः, स्थेयान् । स्थूलदूरेत्यादिनाऽन्तस्थादिलोपे नामिनो गुणे च स्थविष्ठः, स्थवीयान् , दविष्ठः दवीयान् ॥
- बहोणीष्ठे भूय ७॥४॥४०॥ बहुशब्दस्य णीष्ठयोः परयोर्भूय इत्ययमादेशो भवति । भूयिष्ठः, भूयान् । अवादेशस्तु न, भू ऊ इत्यूकारप्रश्लेषात् ॥
विन्मतोणीष्ठेयसौ लुप् ७॥४॥३२॥ विन्मतु इत्येतयोः प्रत्यययोः णीष्ठेयसुषु प्रत्ययेषु परेषु लुब् भवति । अयमेषामनयोरतिशयेन स्रग्वी स्रजिष्ठे::, सजीयान् । अयमेषामनयोऽितिशयेन त्वग्वान् त्वचिष्ठः, त्वचीयान् ।
नकस्वरस्य ७४४४॥ एकस्वरस्य शब्दरूपस्य योऽन्त्यस्वरादिरवयवस्तस्येमनि गीष्ठेयसुषु च परेषु छग न भवति । .. त्यादेश्व प्रशस्ते रूपप्.७।३।१०॥ त्याघन्तानाम्नश्च प्रशस्तेऽथे वर्तमानाद् रूपप् प्रत्ययो भवति । प्रशस्तं पचति पचतिरूपम् । पण्डितरूपः। दर्शनीयरूपा । वैयाकरणरूपः ॥ 2-अवर्णेवर्णस्य । ९-नबैकेति निषेधे एत् ।- १०-भूर्लक् चैवर्णस्य । १-अपदत्वान्न गः । २-क्यङ्मानीति पुंवत् ।