SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ हैमनूत लघु प्रक्रिया ४५३ ऋदुदितरतमरूपकल्पब्रुवचेलड्गोत्रमतहते वा ह्रस्वश्व | ३|२|६३ || ऋदिदुदिच्च परतः स्त्रीलिङ्गशब्दस्तरादिषु प्रत्ययेषु ब्रुवादिषु च स्त्र्येकार्थेषूत्तरपदेषु ह्रस्वान्तः पुंवच्च वा भवति । पचन्तितरा, पचत्तरा, पचन्तीतरा । पचन्तितमा, पचत्तमा, पचन्तीतमा । श्रेयसितरों, श्रेयस्तरा, श्रेयसीतरा । श्रेयसितमा, श्रेयस्तमा, श्रेयसीतमा । पचन्तिरूपा, पचद्रूपा, पचन्तीरूपा । श्रेयसिरूपा, श्रेयोरूपा श्रेयसीरूपा ॥ अतमवादेरषदसमाप्ते कल्पप्देश्यप्रदेशीयर् ।७।३।११॥ ईषदसमाप्तेऽर्थे वर्त्तमानाच्याद्यन्तान्नाम्नश्च तमवाद्यन्तवर्जितात् कल्पप् देश्यप् देशीयर् इत्येते प्रत्यया भवन्ति । सम्पूर्णता पदार्थानां समाप्तिः, सा किञ्चिदूना ईषदसमाप्तिस्तद्विशिष्ट ईषदसमाप्तः । ईषदसमाप्तं पचति पचतिकल्पम् । पचतिदेश्यम्, पचतिदेशीयम् । ईषद। । समाप्ता पट्वी पटुकल्पा । पचन्तीकल्पा, पचन्तिकल्पा, पचत्कल्पा । पटुदेश्या, पटुदेशीया, पटुकल्पा || नाम्नः प्राग् बहुर्वा | ७|३|१२|| ईषदसमाप्ते ऽर्थे वर्तमानानाम्नो बहुप्रत्ययो वा भवति स च नाम्नः ३- पच्धातोः शतृः, तत ऋदित्त्वात्तरादिषु पुंत्रद् हस्वश्च वा । अधातूदिति ङीः । ४- अधातूदिति ङीः । उदित्त्वात् । ५- क्यङ् मानीति पुंवत् । ६- ऋदुदिति पुंवद् हृस्त्रश्च वा ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy