SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया २९ डेङस्योर्यातौ | १|४|६|| अकारात्परयोः स्यादे -- ङस्योर्यथासंख्यं य आत् इत्यादेशौ भवतः । देवाय । देवाभ्याम् । देव भ्यसिति स्थिते ए बहुभो | १|४| ४ || बहुवचने सकारादौ भकारादौ ओसि च स्यादौ परे अकारस्य एकारादेशो भवति । देवेभ्यः ॥ विरामे वा । १।३।५१॥ बिरामस्थस्य शिडूवर्जस्य धुटः प्रथमो वा स्यात् । देवात्, देवाद् । देवाभ्याम्, देवेभ्यः । देवस्य । देवयोः । षष्ठीबहुवचने देव आमिति स्थिते T ह्रस्वापश्च | १|४|३२|| ह्रस्वान्तादावन्तात्स्त्रीलिङ्गादीदूदन्ताच्च परस्य आम: स्थाने नामित्यादेशो भवति । देव नामिति स्थिते दीर्घो नाम्यतिसुचतसृषः १|४|४७ ॥ तिसृचतसृषकारान्तरेफान्तवर्जशब्द सम्बन्धिनः समानस्य स्यादौ नामि परे दीर्घो भवति । देवानाम् । देवे देवयोः । सप्तमीबहुवचने देव इति स्थिते द् बहुभोसीत्येत्वे देवे सु इति जाते -- नाम्यन्तस्थाकवर्गात्पदान्तः कृतस्य सः शिनान्तरेऽपि | २|३ | १५ || नामिनोऽन्तस्थायाः कवर्गाच्च परस्य १-अत आ इत्यात्वम् ।२- आदादेशे समानदीर्घे धुटस्तृतीय इति तृतीयत्वम् । ३ - टाङसोरिति स्यादेशः । ४- एहुस्भोसीत्येत्वे अयादेशः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy