SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ २८ हैमनूतनलघुप्रक्रिया तदन्तं पदम् ।१।१।२०॥स्याद्यन्तं त्याद्यन्तं च शब्दरूपं पदसंज्ञ स्यात् । रुत्वविसगौं, देवः। द्विवचने-देवौं' । बहुवचने-देव असिति स्थिते__ अत आः स्यादौ जस्भ्याम्ये ।१।४।१॥ स्यादौ जसि भ्यामि यकारादौ च परे अकारस्य आकारो भवति । समानदीर्घः । देवाः॥ समानादमोऽतः ।।४।४६॥ समानात्परस्य अमोऽकारस्य लुग भवति । देवम् , देवौ । द्वितीयाबहुवचने देव असिति स्थिते शसोऽता सश्च नः पुंसि ।१।४।४९॥ शसोऽकारेण सह समानस्य दीर्घः, तत्सन्नियोगे च पुल्लिङ्गविषये शसः सकारस्य नकारो भवति । देवान् । तृतीयैकवचने देव आ इति स्थिते टाङसोरिनस्यौ ।१।४।५॥ अकारात्परयोः स्याद्योः टाङसोः स्थाने यथासंख्यमिन-स्य इत्यादेशौ भवतः । देवेन, देवाभ्याम् । देव भिस् इति स्थिते भिस ऐस् ।१।४।२॥ अकारात्परस्य स्यादेर्भिसः स्थाने ऐसित्यादेशो भवति । देवैः । चतुर्येकवचने देव 'ए इति स्थिते१-ऐदौदित्यौः । २-अत आ इत्यात्वम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy