SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलंधुप्रक्रिया “संहितैकपदे नित्या, नित्या धातूपसर्गयोः ।। नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ इति ॥ इति रेफसन्धिः , ॥ अथ स्वरान्तपुल्लिङ्गप्रकरणम् ।। अधातुविभक्तिवाक्यमर्थवन्नाम ।१।१।२७॥ धातुविभक्त्यन्तवाक्यवर्जितमर्थवद् यच्छन्दरूप तनामसंज्ञं भवति ॥ स्त्यादिविभक्तिः ।१।१।१९॥ स्यादयस्त्यादयश्च प्रत्ययाः सुप्स्यामहिपर्यन्ता विभक्तिसंज्ञका भवन्ति ॥ - स्यौजसमौशस्टाभ्यांभिस्ङेभ्यांभ्यस्ङसिभ्यांभ्यस्ङसोसांझ्योस्सुपां वयी त्रयी प्रथमादिः ।१।१। १८॥ स्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमाद्वितीयातृतीयाचतुर्थीपञ्चमीषष्ठीसप्तमीसंज्ञा भवति । तद्यथा-सि औ जसिति प्रथमा, अम् औ शसिति द्वितीया, टा भ्याम् भिसिति तृतीया, डे भ्याम् भ्यसिति चतुर्थी, उसि भ्याम् भ्यसिति पञ्चमी, ङस् ओस् आमिति षष्ठी, डि ओस् सुप् इति सप्तमी । इकार-जकार-शकार-टकार-उकार-पकारा इत्संज्ञका अनुबन्धाः। तत्र देवशब्दानामसंज्ञायां प्रथमैकवचने सावनुबन्धशब्दलोपे देव-स् इति स्थिते,१-क्वचिद् व्यपेक्षामिति पाठः, स तु न मनोज्ञः । वाक्ये विवक्षाधीना संहितेत्याशयः । २-तत्र प्रत्येकं क्रमश एकवचन-द्विवचन-बहुवचन-संज्ञा ज्ञेयाः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy