________________
हैमन्तनलघुप्रक्रिया अनः।२।१।७४॥ अहम् शब्दस्य पदान्ते रूरित्ययमादेशो भवति । हे दीर्घाहो निदाघ !। अहोभ्याम् ॥
वाऽहर्पत्यादयः।१।३।५८॥ अहर्पत्यादयः शब्दाः यथासंख्यमकृतविसर्गाः कृतोत्वाभावाश्च वा निपात्यन्ते। अह. पतिः, अह - पतिः, अहःपतिः। हे प्रचेता राजन् !। हे प्रचेतो राजन् !॥
एतदश्च व्यञ्जनेऽनगनसमासे ॥१॥३॥३६॥ एतदस्तदश्च परस्य सेयंचने लुगू भवति, अकि नसमासे च सति न भवति । एष ददाति, स गच्छति । अनग्नसमास इति किम् ? एषकः करोति, असो याति ॥
तदः सेः स्वरे पादार्था ।१।३४५॥ तदः परस्य सेः स्वरे परे लुगू भवति, सा चेत्पादपूरणी भवति । सैष दाशरथी रामः । पादार्थेति किम् ? स एष भरतो राजा ॥
न सन्धिः ।१।३।५२॥ विरीमे सन्धिर्न भवति । दधि अत्र, ते आहुः । जिनः जयति । संहितायां तु सन्धिरेव । सा च
१-पुल्लिङ्गे लुबभावाद् रो लुपीति न प्रवर्तते । २-अत्र विरामो विलम्बेनोच्चारण बोध्यम् । अर्धमात्राधिककालविलम्बाभावे तु विरामो नेष्यते । अयमेव विरामाभावः संहितेत्युच्यते ।