________________
हैमनूतन लघु प्रक्रिया
२५
घोषवति १।३।२१ ॥ अतः परस्य पदान्तस्थस्य रोः स्थाने घोषवति परे उकारो भवति । लुगपवादः । धर्मो जयति । रोरिति किम् ? प्रातर्गच्छति ॥
अतोऽति रोरुः | १|३|२०|| अकारात्परस्य पदान्तस्थस्य रोः स्थाने अकारे परे उकारादेशो भवति । कोऽत्र, कोऽर्थः ॥
रोरे लुग्दीर्घश्चादिदुतः | १ | ३ | ४९ || रेफस्य रेफे परे लुग्भवति, अकारेकारोकाराणां चाऽव्यवहितपूर्वाणां दीर्घो भवति अनु । पुना रमते, मुनी राजते, पटू राजा । अन्विति किम् ? जिनो रोजते ॥
रो लुप्यरि |२| १ | ७५ || अहन् शब्दस्य स्यादिलुपि सत्यां पदान्ते रेफवर्जिते वर्णे परे रोऽन्तादेशो भवति । शेरपवादः । अहरधीते । अहर्गणः । अरीति किम् । अहोरूपम् ॥
१ - अवर्ण भो इत्यादिना विहितलुकोऽपवाद इत्याशयः ।
२- अत्र पूर्वमुत्वे रेफलोपाभावः । अन्वित्यस्याभावे तु परत्वाद्रेफलोप एव स्यात् । अत्र वि० वि० कारिका
" सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेत् ।
परेण पूर्वबाधो वा प्रायशो दृश्यतामिह' ।। इति ।
अत्र धर्मो जयतीत्याद्युद्देशेन पूर्वार्धः, जिनो राजते इत्याद्युद्देशेन चोत्तराधे इत्याभाति । शास्त्रकृत्तु 'अनु' इत्यधिकरोति । तदेतत्समालोचनीयं तज्ज्ञैः ।।
३ - अह्न इति त्वम्, तत उत्वमोत्वं च ।