SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ २४ हैमनूतनलघुप्रक्रिया पचति, कः पचति, के )( फलति, कः फलति ॥ ख्यागि ।१।३।५४। पदान्तस्थस्य रेफस्य ख्याधातौ परे विसर्ग एव भवति । कः ख्यातः, पुनः ख्याति ॥ शिट्यघोषात् ।१।३।५५॥ अघोषात्परे शिटि परतः पदान्तस्थस्य रेफस्य विसर्ग एव भवति । कः प्साति, परुषः सरुकः॥ व्यत्यये लुग्वा ।१।३।५६॥ शिटः परेऽघोषे परतः पदान्तस्थस्य रेफस्य लुग्वा भवति । पुन स्पृशति, पुन: स्पृशति । क स्खलति, कः स्खलति । चक्षुश्च्योतति, चक्षुः श्योतति ॥ अवर्णभोभगोअघोलुंगसन्धिः ।१।३।२२॥ अवर्णाद् भोभगोअघोभ्यश्च परस्य पदान्तस्थस्य रोघोषवति परे लुग भवति, स च सन्धेनिमित्तं न भवति । श्रमणा गच्छन्ति । भोस् भगोस् अघोस् इति सकारान्ता निपाताः । भो गच्छसि, भगो हससि, अघो याहि ॥ रोयः ।१।३।२०॥ अवर्णभोभगोअघोभ्यः परस्य पदान्तस्थस्य रोः स्थाने स्वरे परे यकारादेशो भवति । के आस्ते, कयास्ते । भो अत्र, भो यत्र । भगो अत्र, भगो यत्र । अघो अत्र, अघो यत्र ॥ १-खड्गमुष्टिः । २-भगवन्नित्यर्थः ।। ३-अघवन्नित्यर्थः । ४-स्वरे वेति यकारलोपोऽसन्धिश्च ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy