________________
AMMAMAMAHA
हैमनूतमलघुप्रक्रिया
॥ अथ रेफसम्धिप्रकरणम् ॥ कम् चारुरिति स्थिते- .
सो रुः ।२।११७२॥ पदान्तस्थस्य सकारस्य रुरादेशी भवति । उकार इत । कर चारुरिति जाते__ चटते सद्वितीये ।१।३।७॥ पदान्तस्थस्य रेफस्य चटतेषु सद्वितीयेषु परेषु यथासंख्यं श् ष् स् इत्यादेशा भवन्ति । कश्चारुः, अन्तश्चरति । करछादयति, कष्टीकते, कष्ठकारः, कस्तरति, कस्थुडति, पुनष्टीकते, अन्तस्तरति ॥
शषसे शषसं वा ।१।३।६॥ पदान्तस्थस्य रेफस्य शवसेषु परेषु यथासंख्यं शषस इत्यादेशा वा स्युः॥ .
र पदान्ते विसर्गस्तयोः ।१।३।५३॥ पदान्तस्थस्य रेफस्य स्थाने विसर्गादेशो भवति विरामे अघोषे परे च । करशेते, कः शेते । कष्षण्डः, कः षण्डः, कस्साधुः, कः साधुः ॥ . रकखपफयोः क)(पौ।१।३।५॥ पदान्तस्थस्य रेफस्य कखयोः पफयोः च परयोः यथासंख्यं - क )( पौ जिह्वामूलीयोपध्मानीयौ आदेशौ वा भवतः । कx करोति, कः करोति, क खनति, कः खनति । क ) १-अत्र सूत्रे रेफसामान्यग्रहण न तु रोरेवेति बोध्यम् । एवमग्रेऽपि । २-क्लीबः ।