________________
२२
हैमनूतनलघुप्रक्रिया वृश्चति, मेजति, सपिषु ॥
न शात् ।१।३।६२॥ सकारात्परस्य तवर्गस्य स्थाने चवर्गों न भवति । अश्नाति, प्रश्नः ॥
पदान्ताहवर्गादनामनगरीनवतेः।१।३।६३॥ पदान्तस्थादृवर्गात् परस्य नाम् नगरी नवति सम्बन्धिवर्जितस्य तवर्गस्य टवर्गः सस्य पश्च न स्यात् । षण्नयाः, पसु । अनाम्नगरीनवतेरिति किम् ? षण्णाम् , पण्णगर्यः, षण्णवतिः ।।
षितवर्गस्य ।१।३।६४॥ पदान्तस्थस्य तवर्गस्य स्थाने षकारे परे टवर्गों न भवति । तीर्थकृत् पोडशः शान्तिः । भवान् षण्डः ॥
उदः स्था-स्तम्भः सः ।१।३।४४॥ उदः परयोः स्थास्तम्भयोः सकारस्य लुग् भवति । उत्थाता, उत्तम्भिता ।
लिलो ।१।३।६५॥ पदान्तस्थस्य तवर्गस्य स्थाने लकारे परे लौ भवतः । नकारस्य सानुनासिको लँकारोऽन्यस्य निरनुनासिको लकार इति विवेकः। तल्लुनाति, भवाललुनाति ॥ इति व्यञ्जनसन्धिः ॥ १-मस्जतीति स्थिते शकारादेशे तृतीयस्तृतीयेत्यादिना तृतीयत्वं बोध्यम् । २-सर्पिस सु इति स्थिते सकारस्य रुत्वम् , तस्य शषसे इत्यादिना
सत्वम् , सुपः षत्वम् , ततोऽनेन पूर्वसकारस्य षत्वमिति बोध्यम् । ३-तृतीयस्येत्यादिना पञ्चमत्वम् । ४-षष आमिति स्थिते नामादेशः । षकारस्य तृतीयः, नकारस्या. नेन णकारः । ततः पूर्वस्य तृतीयस्य प्रत्यये चेति पञ्चमः ।