________________
हैमनूतनलघुप्रक्रिया
४४७ पियोगे च नवशब्दस्य नू इत्ययमादेशो भवति । नवमेव नवीनम् , नूतनं, नून, नव्यम् ।।
प्रात्पुराणे नश्च ।७२।१६१॥ प्रशन्दात्पुराणेऽर्थे वर्तमानात् स्वार्थे न: प्रत्ययो भवति चकारादीनतनत्नाश्च । प्रगतं कालेनेति प्रशब्देन पुराणमुच्यते । प्रणम् , प्रीणं प्रतनं प्रत्नम् ॥
देवात्तल ।७।२।१६४॥ देवशब्दात्स्वार्थे तल् प्रत्ययो वा भवति । देव एव देवता । लित्त्वात् स्त्रीत्वम् ।।
भेषजादिभ्यष्ट्यण ।।२।१६४॥ भेषजादिभ्यः स्वार्थे ट्यण प्रत्ययो वा भवति । भेषजमेव भैषज्यम् । अनन्त एव आनन्त्यम् । इति ह एव ऐतिहम् । चत्वार एव वर्णाश्चातुर्वर्ण्यम् । त्रिलोकी एव त्रैलोक्यम् ॥
प्रज्ञादिभ्योऽण ।७।२१६५॥ प्रज्ञादिभ्यो नामभ्यः स्वार्थेऽण् प्रत्ययो भवति वा । प्रज्ञ एव प्राज्ञः, वणिगेव वाणिजः। मन एव मानसम् , मरुदेव मारुतः, चोर एव चौरः, देवतैव दैवतम् , बन्धुरेव बान्धवः, चण्डाल एवं चाण्डालः ॥ आकृतिगणोऽयम् ।
वाच इकण ।७।२।१६। सन्दिष्टेऽर्थे वर्तमानाद ३-अस्वयम्भुवोऽविखव् । एवं नव्यमित्यत्रापि बोध्यम् । ४-अमदत्यः चजः कगमिति न । १-अपदत्वान्न गः ।