________________
हैमनूतनलघुप्रक्रिया द्वौ द्विशः, त्रिशः, तावच्छः, कतिशः, गणशः । एकैकेनैकशो वा दीयते । एवं कारकान्तरेऽप्युदाहार्यम् । माषं मापं माषशो वा दत्ते । कणं कणं कणशो वा संचिनोति । क्षणशः कणशश्चैव विद्यामर्थं च चिन्तयेत् । धण्वर्जास्तस्त्राद्याः शसन्ता अव्ययसंज्ञका इति तेभ्यो जातस्य स्यादेर्लुक् सर्वत्र ।।
तीयाट्टीकण न विद्या चेत् ।७।२।१५३॥ तीय. 'प्रत्ययान्तात् स्वार्थे टीकण् प्रत्ययो वा भवति न चेत्तीयान्तस्य
विद्या विषयो भवति । द्वितीयं द्वैतीयीकं पुष्पम् । तृतीयं -तार्तीयिकम् । विद्यायां तु न । द्वितीया तृतीया वा विद्या ।
वर्णाव्ययात् स्वरूपे कारः ७।२।१५६॥ वर्णेभ्योऽव्ययेभ्यश्च स्वरूपार्थवृत्तिभ्यः स्वार्थे कारः प्रत्ययो भवति । अकार इकार उकारः ककार इत्यादि । ककारादिष्वकार उच्चार'णार्थों बोध्यः। ओङ्कारः, नमस्कारः, चकारः, एवकारः, हुंकारः, पूत्कारः, सीत्कारः, सत्कार इत्यादिः ॥
रादेफः ।।२।१५७॥ रशब्दादेफः प्रत्ययो वा भवति । रेफः, रकारः ।।
नवादीनतनत्नं च न चास्य ७।२।१६०॥ नवशब्दास्वार्थे ईन तन ल चकाराद् यश्च प्रत्यया वा भवन्ति तत्स१-तौ मुम इति स्वानुस्वारानुनासिकौ । २-नमस्पुरस इति सः ।।