SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघु प्रक्रिया ४४५ 1 ददति । बहवो ददतीत्यर्थः । एवं बहु धनं ददाति बहुशो ददाति । विवाहे बहुभिर्भुतं बहुशो भुक्तम् । बहुभ्योऽति-थिभ्यो ददाति, बहुशोऽतिथिभ्यो ददाति । बहुभ्यो ग्रामेभ्य आगच्छति, बहुशो ग्रामेभ्य आगच्छति । बहुषु ग्रामेषु वसति, बहुशो वा । एवं भूरिशः प्रभूतशो गणश इत्यादि । अनिष्टेअल्पोऽल्पशो वाssगच्छति । अल्पमल्पशो वा ददाति, अल्पैरल्पशो वा भुक्तम् । अल्पायाल्पशो वाऽतिथये ददाति । अल्पादल्पशो वा ग्रामादागच्छति । अल्पेऽल्पशो वा ग्रामे वसति एवं स्तोकशः, कतिपयश इत्यादि ॥ संख्यैकार्थाद्वीप्सायां शस् |७|२|१५१ || संख्याafar एकत्वविशिष्टार्थवाचिनश्च कारकाभिधायिमो नाम्नो वीप्सायां द्योत्यायां शस् प्रत्ययो वा भवति ॥ बीप्सायां |७|४|८०|| वीप्सायां यद्वर्तते शब्दरूप तद् द्विरुच्यते | पृथक् संख्यायुक्तानां बहुबां सजातीयानामर्थानां साकल्येन प्रत्येकं क्रियया गुणेन द्रव्येण जात्या वा युगपत्प्रयोक्तुमिच्छा वीप्सा । सा च स्याद्यन्तेष्वेव भवतीति तेषामेव द्विर्वचनम् ॥ लुप्यादावेकस्य स्यादेः ७४८१ ॥ एकशब्दस्य वीप्सायां द्विरुक्तस्यादौ वर्तते व एकशब्दस्तत्सम्वन्धिनः स्यादेः बिल्डम् अवतिः । एकैक्मेको वा द्रावि । एवं दौ
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy