________________
:
મ
हैं मा
,
प्रियाकरोति गुरुम् सुखाकरोति । गुरोरानुकूल्यं करोति, तमाराधयतीत्यर्थः ।
दुःखात्प्रातिकूल्ये | ७|२| १४१ ॥ दुःखशब्दात्प्रातिकूल्ये गम्यमाने कुगा योगे डाच् प्रत्ययो भवति । दुःखाकरोति शत्रुम् । शत्रोः प्रातिकूल्यं करोति । प्रतिकूलाचरणेन तं पीडयतीत्यर्थः ॥
शूलात्पाके |७|२|१४२ || शुलशब्दात् पाके गम्यमाने कृगा योगे डाच् प्रत्ययो भवति । शूलाकरोति मांसम् । शूले पचतीत्यर्थः ॥
सत्यादशपथे | ७|२|१४३ ।। सत्यशब्दात् शपथादन्यत्र वर्तमानात् कृगा योगे डाच् प्रत्ययों भवति । सत्याकरोति वणिगू भाण्डम् । कार्षापणादिदानेन मयावश्यमेवैत स्क्रेतव्यमिति क्रेतारं प्रत्याययतीत्यर्थः ।
मद्रभद्राप |७|२| १४४ || मद्र भद्र शब्दाभ्यां मुण्डने गम्यमाने कृगा योगे डाच् प्रत्ययो भवति । मद्रं वपनं करोति मद्राकरोति भद्राकरोति नापितः । शिशोर्माङ्गल्यं केशच्छेदनं करोतीत्यर्थः । मद्र-भद्र शब्दौ माङ्गल्यवचनौ ||
बह्वल्पार्थात्कारकादिष्टानिष्ठे शस् |७|२| १५० । बहुवर्थादल्पार्थाच कारकाभिधायिनो नाम्नः प्रशस् प्रत्ययो वा भवति । यथा संख्यमिष्टेऽनिष्टे च विषये । इष्टे ग्रामे बहुशो