________________
हैमनूतनलघुप्रक्रिया
४४३ स्तिसंपनियोंगे स्सात्प्रत्ययो भवति । राजन्यधीनं करोति राजसात्करोति । एवमन्यदप्यूह्यम् ॥
देये त्रा च ७।२।१३२॥ सप्तम्यन्तात् देयेऽधीनेऽर्थे कृमस्तिसंपनियोंगे त्राप्रत्ययो भवति । यद्देयत्वेन प्राक् कल्पितं तदेव चेदधीनं क्रियते भवति वेति यावत् । देवेऽधीनं देयं करोति देवत्रा करोति द्रव्यम् । देवाय दातव्यमिति यत् स्थापितं तदिदानीं ददातीत्यर्थः ॥ - सप्तमीद्वितीयाद देवादिभ्यः ।७।२।१३४॥ सप्तम्यन्तेभ्यो द्वितीयान्तेभ्यश्च देवादिभ्यस्त्रा प्रत्ययो भवति स्वार्थे । देवेषु वसति भवति स्याद्वा देवत्रा वसतीत्यादि । देवान् गच्छति करोति वा देवत्रा गच्छतीत्यादि । एवं मनुष्यत्रा, गुरुत्रा मत्येत्रा पुरुषत्रा बहुत्रा वसतीत्यादि ।।
समयाद्यापनायात् ।७।२।१३७॥ समयशब्दात्कालहरणे गम्यमाने कगा योगे डाच् प्रत्ययो भवति । समयाकरोति कुविन्दः। अद्य श्वस्ते पटं दास्यामीति कालक्षेपं करोतीत्यर्थः ।।
प्रियसुखादानुकूल्ये ।७।२।१४०॥ प्रिय सुख इत्ये-- ताभ्यां कुगा योगे आनुकूल्ये गम्यमाने डाच् प्रत्ययो भवति २-नाम्नो न इति नलोपः। ..