________________
४४२
हैमनूतनलघुप्रक्रिया रहीकरोति रजीकरोति । एवं भ्वस्तियोगे स्वयमह्यम् ॥ ___ इसुसोबहुलम् ।।२।१२८॥ इस् उस् इत्येवमन्तस्य चौ परे बहुलमन्तस्य लुग भवति । सपीकरोति नवनीतम् । असर्पिः सपिः करोतीत्यर्थः। धनूकरोति वंशम् ॥ ___ व्यञ्जनस्यान्तस्य ईः ।७।२।१२९।। व्यञ्जनान्तस्य
चौ परे बहुलमोकारोऽन्तो भवति । दृषदीभवति शिला । समिधीभवति काष्ठम् सर्पिभवति, धनुर्भवति, दृषद् भवति, इत्यादयोऽपि बाहुलकात् ॥ ___व्याप्तौ स्सात् ७।२।१३०॥ कृभ्वस्तिभ्यां योगे कृगः कर्मणो भ्वस्तिकर्तुश्च प्रागतत्तत्त्वे विषये सकारादिः सात्प्रत्ययो भवति, प्रागतत्तत्त्वस्य चेत्सर्वात्मना द्रव्येणाभिसम्बन्धो गम्यते । सर्व काष्ठं प्रागनग्निमग्नि करोति अग्निसात्करोति काष्ठम् । द्विसकारपाठः षत्वनिवृत्त्यर्थः । एवं भवत्यस्तियोगेऽप्यूह्यम् ॥
जातेः सम्पदा च ७२।१३१॥ कुम्वस्तिभिः सम्पदा च योगे करोति कर्मणो भवस्तिकर्तुः संपदिकर्तुश्च प्रागतत्तत्त्वेन सामान्यस्य व्याप्तौ गम्यमानायां स्सात्प्रत्ययो भवति । अस्यां सेनायां सर्व शस्त्रमग्निसात्करोति दैवम् ।।
तत्राधीने ७।२।१३२॥ सप्तम्यन्तादधीनेऽर्थे कम्ब१-अन्त्यलोपे दीर्घः।