________________
४४१
प्राग्वसति ।।
वोत्तरपदेऽर्धेः ७।२।१२५॥ अपरशब्दस्य केवलस्य दिक्पूर्वपदस्य च अर्धशब्दे उत्तरपदे पश्चादेशो वा भवति । अपरमधे पश्चार्धमपरार्धम् । दक्षिणापरस्या अर्थों दक्षिणपश्चार्धः। उत्तरपश्चार्धः। उत्तरपदस्य समास एव भावादसमासे न । अपरा अर्धे शोभते ॥
कृभ्वस्तिभ्यां कर्मकर्तभ्यां प्रागतत्तत्त्वे चिः १७।२।१२६॥ करोति कर्मणो भ्वस्तिकर्तुश्च प्रागतत्तत्त्वे, (अभूततद्भावे) गम्यमाने कृभ्वस्तिभ्यां च योगे चिः प्रत्ययो भवति ॥
ईश्च्वावर्णस्यानव्ययस्य ।४।३।१११॥ अन्ययवर्जितस्याऽवर्णस्य चौ परे ईकारोऽन्तादेशो भवति । शुक्लीकरोति पटम् । . अशुक्लं शुक्लं करोतीत्यर्थः । शुक्लीक्रियते, शुक्ली करणमित्याद्यप्यूह्यम् । शुक्लीभवति । अशुक्लः शुक्लो भवतीत्यर्थः । माली करोति । माली भवति । शुक्लीं स्यात् । माली स्यात् ॥ शुचीकरोति । पट्टकरोति ॥ दीर्घच्चीति दीर्घः।
अरुमनश्चक्षुश्वेतोरहोरजसा लुक च्यौ ।७।२।१२७॥ एतेषामन्त्यस्य चो पर लुग् भवति । अनसररुः करीति अलंकरोति । उन्मनीकरोति। चक्षुकरोति । विषतीकरोति । २-अन्त्यलोपे दीर्घ वीति दीर्घः । .