________________
हैममूलघुत्रक्रिया
ग्रामाद् दूरा दक्षिणा दिग् रमणीया दक्षिणा दक्षिणाहि वा रमणीयम् । देशे- दक्षिणा दक्षिणाहि वा वसति ॥
४४०
वोत्तरात् |७|२|१२१|| उत्तरशब्दात्प्रथमासप्तम्यन्ताद् दिग्देशवृत्तेरा, आहि इत्येतौ प्रत्ययौ वा भवतः । ग्रामादुत्तरा उत्तराहि वा रमणीयम् । देशे, ग्रामादुत्तरोत्तराहि वा वसति ॥ पक्षेऽतसातौ ॥
अदूरे एनः | ७|२| १२२ ॥ दिक्शब्दाद् द्विग्देशकालवृत्तेः प्रथमासप्तम्यन्तादवघेरदूरे वर्त्तमानादेनः प्रत्ययो भवति । अस्मात्पूर्वा या दूरी दिक, कालो वा रमणीयः, पूर्वेणास्य रमणीयम् । देशे - पूर्वेणास्य वसति । एवं दक्षिणेमोत्तरेणेत्यादि ॥
दिक्शब्दाद्दिग्देशकालेषु प्रथमापञ्चमी सप्तम्याः |७|२| ११३ || दिशि प्रसिद्धाद् दिक्शब्दाद् दिशि देशे काले च वर्त्तमानात् प्रथमापञ्चमी सप्तम्यन्तात् स्वार्थे धा प्रत्ययो भवति ||
लुबचेः ।७।२।१२३|| अश्वत्यन्ताद् दिक्शब्दाद् दिग्देशकालेषु वर्त्तमानात् प्रथमापञ्चमी सप्तम्यन्ताद् यः प्रत्ययो fatat धा एनो वा तस्य लुप् भवति ॥ प्राची दिक् रमणीया प्रागे रमणीयम् । प्राजागतः, १- इयादेरिति लुकि च ज इति कः ततस्तृतीयः ।