________________
हैमनूतनलघुप्रक्रिया ४३९ मानाभ्यां प्रथमापञ्चमीसप्तम्यन्ताभ्यां स्वार्थेऽतस प्रत्ययो भवति । दक्षिणा दिग्देशो वा रमणीयो दक्षिणतो रमणीयम् । आगतो वसति वा । एवमुत्तरतः परतः अवरतः ॥ -- अधरापराच्चात् ।।२।११८॥ अधरापराभ्यां दिग्देशकालवृत्तिभ्यां प्रथमापञ्चमीसप्तम्यन्ताभ्यामात्प्रत्ययो भवति, चकाराद् दक्षिणोत्तराभ्यां च । अधरादक्षिणादुत्तराद्वा रमणीयमागतो वासो वा ॥
पश्चोऽपरस्य दिक्पूर्वस्य चाति ७।२।१२४॥ अपरशब्दस्य केवलस्य दिक्पूर्वस्य च आति प्रत्यये परे पश्चादेशो भवति । पश्चाद्रमणीयमागतो वासो वा । दक्षिणा च साऽपरा च दक्षिणापरा । दक्षिणपश्चाद्रमणीयमागतो वसति वा ॥
वा दक्षिणात्प्रथमासप्तम्या आः ७।२।११९॥ दक्षिणशब्दाद् दिग्देशवृत्तेः प्रथमान्तात् सप्तम्यन्ताच्च आ: प्रत्ययो वा भवति । पक्षेऽतसातौ । दक्षिणा रमणीयं वसति वा । दक्षिणतो रमणीय वसति वा । दक्षिणाद् रमणीयं वसति वा ।।
आही दूरे ७।२।१२०॥ दिक् शब्दा अवधिसापेक्षाः। तत्रावधेरे दिशि देशे वा वर्तमानात् प्रथमासप्तम्यन्ताद् दक्षिणशब्दाद् आ, आहि इत्येतौ-प्रत्ययौ भवतः ।