SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४३८ हैमनूतनलघुप्रक्रिया रमणीयम् । एवमुपांगत उपरिष्टाद्वाऽऽगतः । उपरि उपरिष्टाद्वा वसति ॥ पूर्वाऽवराधरेभ्योऽसस्तातो पुरवधश्चैषाम् ।७।२।। ११५॥ पूर्व अवर अधर इत्येतेभ्यः प्रत्येकं दिग्देशकालवृत्तिभ्यः प्रथमापश्चमीसप्तम्यन्तेभ्योऽस् अस्तात् इत्येतौ प्रत्ययौ भवत एषां च यथासंख्यं पुर, अव , अध् इत्येते आदेशा भवन्ति । पूर्वा दिग् देशः कालो वा रमणीयः पुरः पुरस्ताद्वा रमणीयम् । पुरः पुरस्ताद्वाऽऽगतः, पुरः पुरस्ताद्वा वसति । अवोऽवस्ताद्वा रमणीयमित्यादि । अधोऽधस्ताद्वा रमणीयमित्यादि । परावरात्स्तात् ।७।२।११६॥ पर अवर इत्येताभ्यां दिग्देशकालेषु वर्तमानाभ्यां प्रथमा पञ्चमी सप्तम्यन्ताभ्यां स्वार्थे स्तात्प्रत्ययो भवति । __ सर्वादयोऽस्यादौ ।३।२।६१॥ सर्वादिगणः परतः स्त्री पुंवद् भवति, स्यादिश्वेत्ततः परो न भवति । परा दिग्र देशः कालो वा रमणीयः परस्ताद् रमणीयम् । परस्तादागतः, परस्ताद् वसति । एवमवरस्मात् ।। दक्षिणोत्तराचातस् ७१।११७॥ दक्षिण उत्तर इत्येताभ्यां चकारात्परावराभ्यां च दिग्देशकालेषु वर्त१-समुदायस्याव्ययत्वेऽवयवलिङ्ग निवर्तत इति बोध्यम् । दिग्वृत्तेः परेति प्रथमान्तात्स्ताति पुंवद्भावः । एवमग्रेऽप्यन्यत्रोत्तरादिशब्देऽपि द्रष्टव्यम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy