________________
हैमनूमकिया
४३७
प्रकारवति विचालवति चाभिधेये षण् प्रत्ययो भवति । द्वौ प्रकारौ विभाग वा एषां द्वैधानि । त्रैधानि । द्वैधीभावः, त्रैधीभावः ॥
वारे कृत्वस् |७|२|१०९ ॥ वारे वर्त्तमानात्संख्याशब्दात् वारवति धात्वर्थे कृत्वस् प्रत्ययो भवति । वारो धात्वर्थस्याsयौगपद्येन वृत्तिस्तत्कालो वा । पश्चवारा अस्य पञ्चकृत्वो भुङ्क्ते । शतकृत्वोऽधीते । एवं बहुकृत्वः, तावत्कृत्वैः ॥
द्वित्रिचतुरः सुत्र |७|२|११०॥ द्वित्रिचतुर् इत्येतेभ्यः संख्याशब्देभ्यो वारे वर्त्तमानेभ्यस्तद्वति सुच प्रत्ययो भवति । द्वौ वारावस्य द्वि मुङ्क्ते । त्रिरधीते । चैतुः पृच्छति ॥
एकात्सकृच्चास्य ||७|२|१११ ॥ एकशब्दाद्वारे वर्समानात् तद्वति वाच्ये सुच् प्रत्ययः सकृदिति चादेशोऽस्य मवति । एकवार मिति सकृद् भुङ्क्ते ॥
ऊर्ध्वाद् रिरिष्टातावुपश्चाऽस्य |७|२||१४|| ऊर्ध्वशब्दाद् दिग्देशकालेषु वर्त्तमानात् प्रथमापञ्चमी सप्तम्यन्तात् रि-रिष्टात् इत्येतौ प्रत्ययौ भवत उपादेशश्चाऽस्य । ऊर्ध्वा दिग् देशः कालो वा रमणीयः उपरि रमणीयमुपरिष्टाद्वा १ - नाम्नो न इति नलोपः । २-घुटस्तृतीयोऽघोषे प्रथमः ।
३ - रास्स इति सलोपः । ४- अव्ययस्य विशेषणं नपुंसकम् ।