________________
३३६
हैमनूत लघुप्रक्रिया
प्रत्ययान्तं च नाम संख्यावद् भवति । संख्या कार्य
इत्यर्थः ॥ बहुगणं भेदे | १|१|४०|| एतौ शब्दौ भेदे वर्त्तमानौ संख्यावद् भवतः । भेदो नानात्वम् । बहुधा, कतिधा, तावद्धा ॥
विधाले च |५|२| १०५ || विचाले गम्यमाने संख्यावाचिनो नाम्नो धाप्रत्ययो वा भवति । विचालो नाम द्रव्यस्य पूर्वसंख्यायाः संख्यान्तरापत्तिः । एको राशिद्व क्रियते द्विधा क्रियते । द्विधा भवति । द्विधा करोति । एवं त्रिवेत्याद्यपि ॥
भजत
वैकाद् ध्यमञ् |७|२|१०६ ॥ एकशब्दात्संख्यावाचिनः प्रकारे वर्त्तमानाद्विचाले च गम्यमाने ध्यमन् प्रत्ययो भवति या । एकेन प्रकारेण ऐकध्यम् एकधा वा भुङ्क्ते । अनेकमेकं करोति ऐकव्यं करोति, एकधा करोति ॥
द्वित्रेमधौ वा | ७|२| १०७ || द्वित्रि आभ्यां संख्यावाचिभ्यां प्रकारे वर्तमानाभ्यां विचाले च गम्यमाने स एषा इत्येतौ प्रत्ययौ वा भवतः । द्वाभ्यां प्रकाराभ्यां द्वैधं द्वेषा आते। एकं रात्रि द्वौ करोति द्वैवं द्विधा वा करोति ॥
तइति घणू
|७|३|१०८ || द्वित्रिभ्यां संख्यावाचिभ्यां
५- एवं