________________
हैमनूतन लघुप्रक्रिया
४३५
ऐषमः । परस्मिन् पूर्वस्मिन् वा वर्षे परुत्, उत्प्रत्ययः: प्रकृतेः परादेशश्च । परारि । पूर्वतरशब्दात्परतरशब्दाद्वा आरिप्रत्ययः प्रकृतेः परा देशश्च । पूर्वतरे परतरे वा वर्षे इत्यर्थः ।
अनद्यतने हिः | ७|२| १०१ ॥ सप्तम्यन्तादनद्यतने काळे वर्त्तमानाद् यथासम्भवं किमद्व्यादिसर्वाद्य वैपुल्यवहोः प्रत्ययो भवति । कस्मिन्नद्यतने काले केहि । यहि, तर्हि, अन्यर्हि, एतर्हि, बहुर्हि ।
प्रकारे था |७|२|१०२ ॥ प्रकारे वर्त्तमानात् किमव्यादिसर्वाद्यवैपुल्य हो : थाप्रत्ययो भवति । सर्वेण प्रकारेण सर्वथा । प्रकारो भेदो विशेषः । यथा, तथा, उभयथा, अन्यथा, अपरथा, इतरथा ॥
कथमित्थम् | ७|२|१०३ ॥ एतौं प्रकारे निपात्येते । केन प्रकारेण कथम् । अनेनैतेन वा प्रकारेणेत्थम् । थम् 1 प्रत्ययः प्रकृतेरिदादेशः ॥
सङ्ख्याया धा |७ |२| १०४ || संख्यावाचिनो नाम्नः प्रकारे वर्त्तमानाद् धाप्रत्ययो भवति । एकेन प्रकारेण एकधा, द्विधा, त्रिधा, चतुर्धा, पञ्चधा, शतघा, इत्यादि ।
डत्यतु संख्यावत् | १|१|३९॥ इतिप्रत्ययान्तमतु
१- ४ - किमः क इति कादेशः । २-३ - आर इत्यत्वम् ।