________________
४३२
हैमनूतनलघुप्रक्रिया व्याश्रये तसुः ।७।२।८१॥ षष्ठयन्ताद् व्याश्रये गम्यमाने तमः प्रत्ययो भवति । नानापक्षाश्रयो व्याश्रयः । देवा अर्जुनतोऽभवन् । अर्जुनस्य पक्षेऽभवन्नित्यर्थः। एवं यतः मत्तः ततः इत्यादि । यतोऽभवत् । यस्य पक्षे इत्यर्थः॥
आधादिभ्यः ।७।२।८४॥ आधादिभ्यः सम्भवद्विभक्त्यन्तेभ्यस्तसुः प्रत्ययो भवति । आदौ आदेर्वा आदितः, मध्यतः, अन्ततः। दुष्टः शब्दः स्वरतो वर्णतो वा। स्वरेण वर्णेन चेत्यर्थः॥
पर्यभेः सर्वोभये ।७।२।८३॥ परि अभि इत्येताभ्यां यथाक्रम सौभयाथें वर्तमानाभ्यां तसुः प्रत्ययो भवति । परितः, सर्वत इत्यर्थः । अभितः, उभयत इत्यर्थः ।।
अहीयरुहोऽपादाने ।७।२।८८॥ अपादाने या पञ्चमी विहिता तदन्तात्तमः प्रत्ययो वा भवति । तच्चेदपादानं हीयरुहोः सम्बन्धि न भवति । ग्रामाद् ग्रामतो वाऽsगच्छति । चौराद् चौरतो वा बिभेति । अहीयरुह इति किम् ? सार्थाद् हीयते, सार्थाद् होनः, पर्वतादवरोहति अत्र तमुर्न भवति ॥
किमयादिसर्वाद्यवैपुल्यवहोः पित्तस् ।७।२।८९॥ .२-कर्तुरपायेऽवधित्वविवक्षा, सार्थेन हीयत इत्यर्थः । सार्थात्स्वयमेव
हीयते इति कर्मकर्तरि वा प्रयोगः । . :: ..:
.
.
.
.