________________
हैमनूतनलघुप्रक्रिया
४३१ प्रत्ययो भवति मतुश्च । गुण्यः, शिवादित्वादिनपि, गुणी, गुणवान् । हिम्यः हिमवान् ।।
सर्वादेरिन् ।७।२।५९॥ सर्वादेरकारान्तात् कर्मधारयान्मत्स्वर्थे इन् प्रत्ययो भवति । सर्व धनं सर्वधनमस्यास्ति सर्वधनी, सर्वबीजी । सर्वकेशी नटः॥
सुखादेः ७।२।६३॥ सुखादेर्मत्वर्थे इन्नेव प्रत्ययो भवति । सुखी, दुःखी, प्रणयी ॥ इति मत्वर्थप्रक्रिया
अथ प्रकाराद्यर्थाः ॥ प्रकारे जातीयर् ७।२।७५॥ प्रथमान्तादस्येति षष्ठ्यर्थे जातीयर् प्रत्ययो भवति, प्रथमान्तं चेत्प्रकारो भवति । प्रकारो विशेषः। पटुः प्रकारोऽस्य पटुजातीयः। यजातीयः, तज्जातीयः, नानाजातीयः, एवंजातीयः, यथाजातीयः। कथंजातीयः॥
रिति ।३।२।५८॥ परतः स्यनूङ् रितिप्रत्यये परे एंवद् भवति । पट्टी प्रकारोऽस्याः पटुजातीया । मृदुजातीया ॥
भूतपूर्वे प्चरट ।७।२।७८॥ भूतपूर्वेऽर्थे वर्तमानपत्रास्त्र पचरट् प्रत्ययो भवति स्वार्थे । भूतपूर्व आय आयचरः, भूतपूर्वादगाऽऽरवरी । दर्शनीयचरः॥ १-स्त्रियां टित्त्वान्डीः । पित्त्वात्स्यामानीति पुंवृत्त्वम् ।
..
H1
.