________________
हैमनूतनलघुप्रक्रिया . ग्मिन् वारा२५॥ वावो मत्वर्थे ग्मिन् प्रत्ययो भवति मतुश्च । वांग्मी, वाग्यान् ॥
मध्वादिभ्यो र ७।२।२६।। मध्वादिभ्यो मत्वर्थे र: प्रत्ययो भवति । मधुरम् । मधुमान् । एवं खं महत्कण्ठविवरमस्यास्तीति खरो गर्दभः। मुखरो वाचालः ॥
लोमपिच्छादेः शेलम् ।७।२।२८। लोमादिभ्यः पिच्छादिभ्यश्च मत्वर्थे यथासंख्यं श इल इत्येतो प्रत्ययौ भवतो मतुश्च । लोमशः, लोमवान् । रोमशः । पिच्छिलः, पक्षिलः।
नोऽङ्गादेः ।७।२।२९॥ अङ्गादिभ्यो मत्वर्थे नः प्रत्ययो भवति मतुश्च । अङ्गान्यस्याः सन्तीत्यङ्गना कल्याणाङ्गी। अन्यत्राङ्गवती। पामानोऽस्य सन्तीति 'पॉमनः । एवं हेमनो बलिन इत्यादि ॥
लक्ष्म्या अनः ।।३२॥ लक्ष्मीशब्दान्मत्वर्थेऽनः प्रत्ययो भवति मतुश्च । लक्ष्मीरस्याऽस्ति लक्ष्मणः । लक्ष्मीवान् ॥ - प्रज्ञाश्रद्धा वृत्तणः ७॥२॥३३॥ प्रज्ञा-श्रद्धा-ऽर्चा‘वृत्ति इत्येतेभ्यो मत्वर्थे णः प्रत्ययो भवति मतुश्च । २-धुटस्तृतीयत्वे च ज इति गः । ३-४-५-नाम्नो न इति नलोपः । ६-अवर्णेवर्णस्येतीकारलोपः, णत्वम् । ७-मावर्णान्तोपान्तेति मो वः ।