________________
हैमनूतनलघुप्रक्रिया प्राण्यङ्गादातो लः ७।२।२०॥ प्राण्याचाचिन आकारान्तान्मत्वर्थे लः प्रत्ययो भवति मतुश्च । चूंडाल:, चूडावान् । शिखालः, शिखावान् । जङ्घालः, जङ्घावान् ॥
सिध्मादिक्षुद्रजन्तुरुग्भ्यः ।७।२।२१॥ सिध्यादेगणात् क्षुद्रजन्तुवाचिभ्यो रुग्वाचिभ्यश्च मत्वर्थे ला प्रत्ययो भवति मतुश्च । सिध्मान्यस्य सन्ति सिध्मल:, सिध्मवान् । वर्मलः, अङ्गादित्वावम॑नः, वम॑वान् । गडुलः, गडमान् । यूकोला, यूकावान , मक्षिकालः, मक्षिकावान् । मूर्छालः, मूछविान् । पांशुलः, मांसलः, पत्रलः, स्नेहलः, शीतलः, श्यामला, पिङ्गलः, पक्ष्मलः, पृथुलः, मृदुलः, मञ्जुला, चटुलः, कण्डूल इत्यादि ॥
प्रज्ञापर्णोदकफेनाल्लेलौ ।७।२।२२॥ एभ्यो मत्वर्थे ल इल इत्येतौ प्रत्ययौ भवतो मतुश्च । प्रज्ञालः, प्रशिल:, प्रज्ञावान् । पर्णलः, पणिलः, उदकलः, उदकिलः । फेनल:,. फेनिलः, फेनवान् ॥
वाच आलाटौ ।७।२।२४॥ वाच इत्येतस्मान्मत्वर्थे आल आट इत्येतौ प्रत्ययौ भवतः क्षेपे गम्यमाने । वाचाल:, वाचाटः । मतुना क्षेपागतेन सः॥ ३-नाम्नो न इति नलोपः । ४-नलोपः । ५-"क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः । शतं वा प्रसूतौ येषां केचिदानकुलादपि ॥१॥" ६-नाम्नो न इति नलोपः । १-अपदत्यासतीयादिक न ।