SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ४२४ हैमनूतनलघुप्रक्रिया ; छन्दोऽधीते श्रोत्रश्च चा ७१।१७३॥ छन्दस् शब्दाद् द्वितीयान्तादधीत इत्यस्मिन्नर्थे इयः प्रत्ययो वा भवति तत्सन्नियोगे च छन्दस् शब्दस्य श्रोत्रादेशः । पक्षेऽण् । छन्दोऽधीते श्रोत्रियः, छान्दसः ।। - इन्द्रियम् ।७।१।१७४॥ इन्द्रशब्दादियप्रत्ययो निपात्यते । इन्द्रस्यात्मनो लिङ्गमिन्द्रियम् , चक्षुरादिकम् । यथायोग्यमर्थान्तरमपि व्युत्पाद्यते ॥ - - तेन वित्ते चञ्चु-चणौ ।७।१।१७५॥ तृतीयान्ताद्वित्तेऽर्थे चञ्चुचण इत्येतो प्रत्ययौ भवतः । वित्तो ज्ञातः प्रकाशो वा । विद्यया वित्तो विद्याचन्चुः, विद्याचणः, केशचञ्चुः केशचणः । श्रौत्रार्हन्तीचणैः ।। . अथ मत्वर्थीयप्रक्रिया ॥ - तदस्यास्त्यस्मिनिति मतुः ।७।२।१॥ प्रथमान्तादस्येति षष्ठ्यर्थेऽस्मिन्निति सप्तम्यर्थे वा मतुः प्रत्ययो भवति प्रथमान्तं चेदस्तिसमानाधिकरणं भवति । गायोऽस्य सन्ति गोमान् , यवाः सन्त्यस्य यवमान् । अादित्वाद्वत्वं न । अस्ति अस्यास्तीत्यस्तिमान् , स्वस्त्यस्यास्तीति स्वस्तिमान् । अस्ति स्वस्तिशब्दाकव्ययौ धनारोग्यवचनौ । वृक्षाः सन्त्यस्मिन् वृक्षवान् गिरिः ॥ ५-अकारलोपः । ६-अपद्वादुन । .. १-अभ्वादेरिति दीर्घः, ऋदुदित इति नोन्तः । २-मावर्णेति वत्वम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy