________________
हैमनूनामक्रिम
४२३
द्वेस्तीयः | ७|१|१६५ ॥ द्विवन्दात्संख्यापूरणे तीयः प्रत्ययो भवति । द्वयोः पूरणो द्वितीयः, द्वितीयां ॥
स्तु च ।७।१।१६६ ॥ त्रि इत्येतस्मात् संख्यापूरणे तीयः प्रत्ययो भवति स च पित्, तत्सन्नियोगे च त्रेस्ट इत्ययमादेशो भवति । त्रयाणां पूरणस्तृतीयः, तिसृणां पूरणी तृतीया तिथिः ॥
पूर्वमनेन सादेश्चन् । ७।१।१६७ || पूर्वमिति क्रियाविशेषणाद् द्वितीयान्तात् केवलात्सपूर्वाच्चानेनेति तृतीयार्थे कर्तरि इन् प्रत्ययो भवति । पूर्वमनेन कृतं पीतं युक्तमित्यादि पूर्वी । विशेषावगमस्त्वर्थात्प्रकरणाच्छब्दान्तरसन्निधेर्वा । यथापूर्वी कटमिति, कृतमित्यवगम्यते, ओदनमिति भुक्तमिति पय इति पीतमित्यादि चावगम्यते । कृतं पूर्वमनेन कृतपूर्वी कटम्, भुक्तपूर्वी ओदनम्, पीतपूर्वी पयः । भूतपूर्वादिवत् कृतपूर्वादिसमासात् प्रत्ययः । क्तान्तं येनैव समानाधिकरणं तस्यैव कर्मतां वक्ति । न च वृत्तौ कान्तं कटादिना समानाधिकरणमिति कटादिगतं कर्मानुक्तमेवेति ततो द्वितीयैव ॥
इष्टादेः ।७।१।१६८।। इष्टादिभ्यः प्रथमान्तेभ्योऽनेनेति तृतीयार्थे कर्तरि इन् प्रत्ययो भवति । इष्टममेन ईष्टी यज्ञे, अधीती व्याकरणे ।
२ - स्त्रियामा
। ३ - पित्त्वात्पुंवद्भावः । ४ च्याप्ये क्लेन इति सप्तमी ।