________________
हैमनूतनलघुप्रक्रिया
बहूनां पूरणो बहुतिथः, बहीनां पूरणी बहुतिथी । एवं गणतिथः, पूगतिथः, संघतिथः । संख्यासम्भव एव विशेषणम्, अन्यत्र पूरणमात्रे प्रत्ययो बोध्यः ||
४२२
अतोरिथद् |७|१|१६१ || अत्वन्तात् संख्याशब्दात् संख्यापूरणे इथट् प्रत्ययो भवति स च पित् । इयतां पूरणः इयतिर्थेः । यावतीनां पूरणी यावतिथी । एवं तावतिथः, एतावतिथः ॥
षट्कतिकतिपयात् थट् | ७|१|१६२ || एभ्यः संख्यापूरणे थट् प्रत्ययो भवति स च पित् । षण्णां पूरणः षष्ठः, षष्ठी तिथिः । कतीनां पूरणः कतिथः । कतिपयानां स्त्रीणां पूरणी कतिपयथी ||
चतुरः |७|१|१६३॥ चतुर् इत्येतस्मात् संख्यापूरणे यह प्रत्ययो भवति स च पित् । चतुर्णां पूरणर्श्वतुर्थः, चतसृणां पूरणी चतुर्थी तिथिः ॥
येयौ च लुक् च | ७|१|१६४ ॥ चतुर् इत्येतस्मात् संख्यापूरणे य ईय इत्येतौ प्रत्ययौ भवतः, तौ च पित्, च इत्येतस्य लुक् च भवति । चतुर्णां पूरणः चतुर्थः, तुरीयः, तुर्या ।
३ - पित्त्वात् पुंवद्भावः, स्त्रियां टित्त्वाडीः । ४ - अपदत्त्वान्न तृतीयः । ५ - पित्वात् पुंवद्भावः । ६ - षष्ठी वेत्यादिनिर्देशान्नः मतिदिति न पदत्वम् तेन तृतीयो न । ७ - पित्त्वात् पुंवद्भावः ।
१ - चतुर्थीति निर्देशान्न पदत्वम् तेन चटते इति न
>