SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ४२१ .. शतादिमासार्धमाससंवत्सरात् ।७।१।१५७॥ शतादिभ्यः संख्याशब्देभ्यो मासार्धमाससंवत्सर इत्येभ्यश्च संख्यापूरणे तमट् प्रत्ययो भवति । शतस्य पूरणः शततमोऽध्यायः। सहस्रतमो द्विजः। मासस्य पूरणो मासतमो दिवसः। अधमासतमः, संवत्सरतमः । संख्यादेरपि । द्विशततमः । दशसहस्रतमः ॥ . षष्ट्यादेरसंख्यादेः ७।१।१५८॥ संख्यादिवर्जितेभ्यः षष्टिप्रभृतिभ्यः संख्याशब्देभ्यः संख्यापूरणे तमटू प्रत्ययो भवति । विकल्पापवादः । षष्टेः पूरणः षष्टितमः । सप्ततितमः । असंख्यादेरिति किम् ? एकषष्टितम एकषष्टः । विंशत्यादेरिति पूर्वेण विकल्प एव । नो मट् ।७।१।१५९॥ असंख्यादेः संख्याशब्दानकारान्तात् संख्यापूरणे मट् प्रत्ययो भवति । डटोऽपवादः। पश्चानां पूरणः पञ्चमः । पञ्चमी । सप्तमः, अष्टमः, नवमः, दशमः । असंख्यादेरेव, एकादशः । षोडशः । अत्र डडेव ॥ पित्तिथट् बहुगणपूगसंघात् ।७।१।१६०॥ बहुगणपूगसंघ इत्येतेभ्यः संख्यापूरणे तिथट् प्रत्ययो भवति, सच पित ॥ १-नाम्नो न इति नलोपः, स्त्रियां टित्त्वान्डीः । २-षोडशषोड.न्नत्यादिनिपातनम् । डिवादन्त्यस्वरादिलोपः।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy