________________
हैमनूत लघुप्रक्रिया
';
शान्ताया डः | ७|१| १५४ || प्रथमान्तात् शतिशद्दशन् इत्येवमन्तात्संख्याशब्दादस्मिन्निति सप्तम्यर्थे शते सहस्रे च . डः प्रत्ययो भवति प्रथमान्तं चेदधिकं तत्सङ्ख्यं च भवति । सा शतसहस्रलक्षणा संख्या यस्य योजनादेस्तत्तत्संख्यं शतं सहस्रमिति यत्संख्यायते तदेव यद्यधिकमपि भवतीत्यर्थः । योजनानां विंशतिर्योजनानि वा विंशतिरधिकाऽस्मिन् योजनशते शते वा योजनेषु विंशं योजनशतं विंशं शतं योजनानि । एवं विंशं योजनसहस्रं विंशं सहस्रं योजनानि वा । एकविंशं द्वाविंशं शतम् । त्रिंशं शतं त्रिंशं सहस्रम् । एकादशं शतम्, एकादशं सहस्रम् ॥
४२०
संख्यापूरणे डट् | ७|१|१५५ ॥ संख्या पूर्यते येन तत् संख्यापूरणम् । संख्याशब्दात् षष्ठ्यन्तात् संख्यापूरणेऽभिधे डट् प्रत्ययो भवति । एकादशानां पूरण एकादेशो रुद्रः । द्वादशमङ्गम् ॥
विंशत्यादेर्वा तमद् ।७।१।१५६ ॥ विंशत्यादेः संख्यायाः संख्यापूरणे तमट् प्रत्ययो वा भवति । पक्षे डट् । विंशतेः पूरणो विंशतितमः विंशो वा सर्गः । विंशतितमी"विंशी स्त्री ॥
६ - विंशतेस्तेरिति प्रतिशब्दलोपः । . ७ - डित्यन्त्यस्वरादिलोपः । स्त्रियां टित्वान्ङीः । ८- डित्यन्त्यस्वरादिलोपः । ९ - डित्यन्त्यस्वरादिलोपः । स्त्रियां टित्वान्ङीः ।