SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया ४१९ यत्तस्किमः संख्याया डतिर्वा | ७|१|१५०॥ संख्यारूपं यन्मानं तद्द्वृत्तिभ्यो यत्तत्किमित्येतेभ्यः प्रथमान्तेभ्योऽस्येति षष्ठ्यर्थे संख्येये मेये इतिः प्रत्ययो वा भवति । पक्षेतुर्यथाविहितम् । या संख्यामानमेषां, यति" यावन्तः, तति, तावन्तः, कति कियन्तः । एतौ चातुडतिप्रत्ययौ स्वभावाद्बहुवचनविषयावेव । असंख्यायां तु कियानित्यादिरेव || अवयवात | ७|१|१५१ || अवयवे वर्त्तमानातू संख्यावाचिनो नाम्नः प्रथमान्तादस्येति षष्ठ्यर्थे अवयविनि तयद प्रत्ययो भवति । चत्वारोऽवयवा अस्याश्चतुष्टयी शब्दानां प्रवृत्तिः । पञ्चतयो यमः । सप्ततयी नयप्रवृत्तिः । दशतयो धर्मः, द्वादशतयः सिद्धान्तः ॥ द्वित्रिभ्यामयट् वा | ७|१।१५२।। द्वि-त्रि इत्येताभ्या मवयववृत्तिभ्यां प्रथमान्ताभ्यामस्येति षष्ठ्यर्थे अवयविनि अयट् प्रत्ययो वा भवति । द्वावयवावस्य द्वैयं द्वितयं तपः । त्रयं त्रितयं जगत् । त्रयः त्रितयो मोक्षमार्गः । द्वैयी द्वितयी । द्वेये पदार्था जीवा अजीवाश्च ॥ अधिकं तत्संख्यमस्मिन् शतसहस्रे शनिवार - डिच्वादन्त्यस्वसदिलोपः, डबिष्ण इति जस्लुक् १ - निस्दुमिति षः तवर्गस्येति टः, कित्त्वान्ङीः । २-नाम्नो न इति न लोपः । ३ अवर्णैवर्णस्येतीकारलोपः । ४ - स्त्रियां दिवान्दीः । ५नेमार्षे ते जस इः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy