________________
हैमनूतनलघुप्रक्रिया : नोयादिभ्यः ।२।११९९॥ अादिभ्यो नामभ्यः परस्य मतोर्मकारस्य वकारादेशो न भवति । ऊर्मिमान् , भूमिमान् ॥
नावादेरिकः ।।७।२॥३॥ नौ इत्येवमादिभ्यो मत्वर्थे इकः प्रत्ययो भवति मतुश्च । नौरस्यास्मिन्वाऽस्तीति नाविकः, नौमान् , कुमारिका, कुमारीमान् ॥
शिखादिभ्य इन् ।७।२।४॥ शिखादिभ्यो मत्वर्थे इन् प्रत्ययो भवतिमतुश्च । शिखी, शिखावान् । माली, मालावान् । बली, बलवान् । व्रती, व्रतवान् । उद्यमी, उद्यमवान् ॥ आकृतिगणोऽयम् ।
व्रीह्यादिभ्यस्तो ।७।२।५॥ ब्रीह्यादिभ्यो मत्वर्थे इक इन् इत्येतौ प्रत्ययौ भवतो मतुश्च । व्रीहिमान् , त्रीहिः । ब्रीही । मायिकः, मायी, मायावान् ॥ 'आकृतिगणोऽयम् ।
अतोऽनेकस्वरात् ।७।२।६॥ अकारान्तादने कस्वरान्मत्वर्थे इक इन् इत्येतौ प्रत्ययौ भवतो मतुश्च । दण्डिकः, दण्डी, दण्डवान् । कृदन्तादनेकस्वरात्तु नेकेनौ । कृत्यवान् , कारकवान् । क्यचित्स्यादपि । कायिकः, कार्यो । गृहिकः,
३-अपदत्वात्तृतीयो न । ऊर्यादित्वाद्वत्वं न । ४-अपदत्वाद्रुर्न । ५-ओदौतोऽवाव् । ६-अवर्णेवर्णस्येतीकारलोपः । १-अकारलोपः । २-३-४-५-अवर्णान्तत्वान्मो वः, एवमन्यत्रापि बोध्यम् । ६-इकार लोपः। ७-अवर्णान्त्यत्वान्मो वः। एवमन्यत्रापि ।