________________
४१४ हैमनूतनलघुप्रक्रिया यानां क्षेत्रं यव्यम् , यवक्यम् , षष्टिक्यम् ॥
सर्वादेः पथ्यङ्गकर्मपत्रपात्रशरावं व्याप्नोति १७।१।९४॥ सर्वशब्दपूर्वेभ्यः पथिन् अङ्ग कर्मन् पत्र पात्र शराव इत्येतदन्तेभ्यो द्वितीयान्तेभ्यो व्याप्नोतीत्यर्थे ईनः प्रत्ययो भवति । सर्वपथं व्याप्नोति सर्वपथीनो रथः। सर्वपथान् व्याप्नोति सर्वपथीनमुदकम् । एवं सर्वाङ्गीण-स्तापः। सर्वकर्मीणः पुरुषः। सर्वपत्रीणः सारथिः । पत्रं वाहनम् । सर्वपात्रीण ओदनः। सर्वशरावीण ओदनः ॥
सर्वान्नमत्ति ७।१।९८॥ सर्वानशब्दाद् द्वितीयान्तादत्तीत्यर्थे ईनः प्रत्ययो भवति । सर्वान्नमत्ति सर्वामीनो भिक्षुनियमरहितः ॥
पारावारं व्यस्तव्यत्यस्तं च ७।१।१०१॥ पारावारशब्दात्समस्ताद् व्यस्ताव्यत्यस्ताच्च द्वितीयान्ताद गामिन्यर्थे ईनः प्रत्ययो भवति । पारावारं गामो पारावारीणः। पारीणः, अवारीणः, अवारपारीणः॥ . ___अध्वानं येनी ७।१।१०३॥ अध्वन् शब्दाद् 'द्वितीयान्तादलङ्गामिन्यर्थे य ईन इत्येतौ प्रत्ययौ भवतः । अध्यानमलं गामी अध्वन्यः। अवनीनः ।। ६-पष्टिरात्रेण पच्यमाना ब्रीहयः षष्टिकाः, अत एव निपातनात् सिद्धिः । १-नोऽपदस्येत्यन्त्यस्वरादिलोपः । २-अनोऽट्ये ये इत्यन्त्यस्वरादिलोपनिषेधः । ३-इनेऽश्वात्मनोरियन्त्यस्वरादिलोपनिषेधः ।