________________
हैमनूतनलघुप्रक्रिया भूऊ इत्यूकारप्रश्लेषादस्वयम्भुव इत्यव् न ।
स्थूल-दूर-युव-हस्व-क्षिप्र-क्षुद्रस्यान्तस्थादेगुणश्च नामिनः ७४।४२॥ स्थूलादीनां यथासंभवमिमनि णीष्ठेयसुषु च परेवन्तस्थादेरवयवस्य लुक् नामिनश्च गुणो भवति । हूस्वस्य भावो हसिमा, क्षिप्रस्य क्षेपिमाँ, क्षुद्रस्य क्षोदिमा ॥
शाकट शाकिनी क्षेत्रे ॥७१।७८॥ धान्यादीनामुत्पत्त्याधारभूमिः क्षेत्रम् । षष्ठयन्तात् क्षेत्रेऽर्थे शाकट. शाकिन इत्येतौ प्रत्ययौ भवतः । इक्षूणां क्षेत्रमिक्षुशाकटम् , इक्षुशाकिनम् । एवं मूलकशाकटं शाकशाकटमित्यादि ।
धान्येभ्य ईन ७।१।७९॥ धान्यवाचिभ्यः षष्ठ्य-- तेभ्यः क्षेत्रेऽर्थे ईनञ् प्रत्ययो भवति । मौदगीनम् , नैवारीणम् ॥ - व्रीहिशालेरेयण ७।११८०॥ त्रीहिशालि इत्येताभ्यां तस्य क्षेत्रे एयण प्रत्ययो भवति । ईनअपवादः। व्रीहे: क्षेत्रं हेयम् , शालेयम् ॥ ___यवयवकषष्टिकायः १७११८१॥ यव-यवक-पष्टिक इत्येतेभ्यस्तस्य क्षेत्रे यः प्रत्ययो भवति । ईनोऽपवादः।। ३-पृथ्वादिः । ४-नामिनों गुणः । ५-नीवाराणा क्षेत्रम् । णत्वम् ।