SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४१२ हैमनूतनलघुप्रक्रिया कम्, रमणीयत्वं रमणीयता । कामनीयकम्, पानीयकम्, औपाध्यायकम् आचार्यकमित्यादि ॥ , चौरादेः | ७|१|७३|| चौरादिभ्यस्तस्य भावे कर्मणि चाsकञ् प्रत्ययो भवति त्वतलौ च । चौरिका, चौरम् चौरत्वम्, चौरता । बाहुलकं, वार्धकम् आवश्यकम् ॥ " , प्रियस्थिर स्फिरोरुगुरुबहुलतृ प्रदीर्घ वृद्धवृन्दारकस्येमनि च प्रास्थास्फावरगरबंहत्रपद्राघवर्षवृन्दम् |७|४| ३८ || प्रियादीनां यथासम्भवमिमनि णीष्ठेयसुषु च यथासंख्यं प्रा इत्यादय आदेशा भवन्ति । वरादीना - मकार उच्चारणार्थः । प्रियस्यै भावः प्रेमा । प्रादाववर्णेवर्णस्येति न, विधानसामर्थ्यात् । स्थिरस्य भावः स्थेमा । उरोर्भावो वरिमा । गुरोर्भावो गरिमा । बहुलस्य बंहिमा । तृप्रस्य पिमा, दीर्घस्य द्राघिमा, वृद्धस्य वर्षिमा । वृन्दारकस्य वृन्दिमा | स्फिरान्ने मन्त्रप्राप्तेः ॥ भूर्लुक् चैवर्णस्य ||७||४१ || बहुशब्दस्य ईयसाविमनि च परे भू इत्ययमादेशो भवति ईयसु इमन् इत्यनयोरिवर्णस्य लुक् च भवति । बोभवो भूमा । ९ - स्त्रियामपि अस्यायत्तदितीत्वम् । १० - अमनोज्ञादे चौरादेरकञ्चन्तस्य स्त्रीनपुंसकते । १- पृथ्वादित्वादिमन्, स्थेमेति । दृढादित्वात् बंहिमेत्यपि । दृढादेराकृतिगणत्वाद् वृन्दित्यपि । प्रियादिः पृथ्वादिः । २ - पृथ्वादित्वादिमन् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy