SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ४१५ अदिस्त्रियां वाऽश्चः ७१।१०७॥ अञ्चत्यन्तानाम्न ईनः प्रत्ययो भवति स्वार्थे न चेत्स दिशि स्त्रियां चर्तते । प्राचीनम् , प्राक् । प्रतीचीनम् , प्रत्यक् । उदीचीनम् , उदक् । अवाचीनम् , अवाक् । सम्यङ्, समीचीनः । प्राचीना रीतिः । दिशि स्त्रियां तु प्राची दिक् ॥ तस्य तुल्ये कः संज्ञाप्रतिकृत्योः ७१।१०८॥ षष्ठ्यन्तात्तुल्येऽर्थे का प्रत्ययो भवति, संज्ञायां प्रतिकृतौ च विषये । अश्वस्य तुल्योऽश्वकः। संज्ञेयम् । एवमुष्ट्रक इत्यादि । अश्वस्य तुल्यमश्वकं रूपम् , आश्चिका प्रतिमा ॥ . शिलाया एयच्च ७।१।११३॥ शिलाशब्दात् षष्ठ्यन्तात् तुल्येऽर्थे एयच प्रत्ययो भवति चकारादेयञ् च । शिलायास्तुल्यं शिलेयं शैलेयं वा दधि। . शाखादेर्यः ७।१११४॥ शाखादिभ्यषष्ठ्यन्तेभ्यस्तुल्येऽर्थे यः प्रत्ययो भवति । शाखायास्तुल्यः शाख्यः, मुख्यः, जघन्यः, अग्र्यः॥ द्रोभव्ये ।७।१।११५|| द्रुशब्दात् तस्य तुल्येऽर्थे भव्ये चाच्ये यः प्रत्ययो भवति । द्रुतुल्यो द्रव्यमयं माणवकः, इष्टार्थपात्रमित्यर्थः । अभिप्रेतार्थपात्र भव्यम् ॥ ४-अच्च प्राग्दीर्घश्च । ५-सह सम इति समिः, अच्च प्राग्दीर्घश्च । ६-स्त्रियामापि अस्यायत्तदितीकारः । ७-अस्वयम्भुव इत्यव् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy