SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ४१० हैमनूतन लघु प्रक्रिया दूत्यं दूतत्वं दूतता । राजादित्वाद् दूयणपि, वाणिज्यम्, दौत्यम् ॥ स्तेनान्नलुक् च ।७।१।६४ || स्तेनशब्दात्तस्य भावे कर्मणि च यः प्रत्ययो भवति तत्सन्नियोगे च न इत्येतस्य लुग्भवति त्वतौ च । स्तेनस्य भावः कर्म च स्तेयं, स्तेत्वं स्तेनता । राजादित्वात् स्तैन्यमित्यपि || कपिज्ञातेरेयण | ७|१|६५ || कपि ज्ञाति इत्येताभ्यां तस्य भावे कर्मणि च एषण् प्रत्ययो भवति त्वतलौ च । कपेर्भावः कर्म च कापेयम्, कपित्वं कपिता । ज्ञातेयम्, ज्ञातित्वम्, ज्ञातिता ॥ प्राणिजातिवयोऽर्थाद | ७|१|६६ || प्राणिजातिवाचिनो वयोऽर्थाच्च तस्य भावे कर्मणि च अञ् प्रत्ययो Hafa raast च । अश्वस्य भावः कर्म वा आश्वम्, अश्वत्वम् अश्वता । एवं गार्दभम् माहिषम्, हास्तेम्, द्वैपम् द्वीपिता, द्वीपित्वं । कुमारस्य भावः कर्म वा कौमारम्, कुमारत्वम्, कुमारता । कैशोरम् । शैशवंम् शावो बालस्तस्य भावः कर्म वा शावम्, वार्करम् । कालभम् ॥ , ' युवादेरण |७|१|६७ || युवादिभ्यः शब्देभ्यस्तस्य " ५-अयिति पर्युदासादपदत्वाच्च ज इति गो न । १ - नोऽपदस्येत्यन्त्यस्वरादिलक् । २ - अस्वयम्भुव इत्यव् 1
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy