________________
हैमनूतनलघुप्रक्रिया
४०९ राज्यम् , अधिराजत्वम् , अधिराजता । यौवराज्यम् । ये गुणद्वारा गुणिनि वर्तन्ते ते गुणागाः। मौढ्यं, मूढत्वं मूढता । जाड्यम् । मान्द्यम् । राज्ञो भावः कर्म वा राज्यम्', राजत्वं राजता । काव्यं कवित्वं कविता । चौर्यम् , वैफल्यम् , पौरो. हिस्यम् , बाल्यम् , सौहित्यम् , मान्यम् । अयं न गुणवचनः॥ __अर्हतस्तोन्त च ७।१।६१॥ अर्हत्शब्दात् षष्ठ्यन्ताद् भावे कर्मणि चार्थे टयण प्रत्ययो भवति तत्सन्नियोगे च तकारस्य न्त् इत्यादेशो भवति त्वतलौ च । अर्हतो भावः कर्म वा आर्हन्त्यम् , अर्हत्त्वम् , अर्हत्ता । आर्हन्ती ॥
सहायावा ७११६२॥ सहायशब्दात्तस्य भावे कर्मणि च ट्यण् प्रत्ययो वा भवति त्वतलौ च । वा वचनाद् योपान्त्यत्वादकत्रपि । साहाय्यम् , सहायत्वम् , सहायता, साहायकम् ॥
सखिवणिग्दुतायः ।७।११६३॥ सखिवणिजदूतइत्येतेभ्यस्तस्य भावे कर्मणि च यः प्रत्ययो भवति त्वतलौ च । सख्युर्भावः कर्म वा सख्यं सखित्वं सखिता । वणिजो भावः कर्म वा वणिज्या, वणिज्यम् , वणिक्त्वम् , वणिक्ता ।
१-अनोऽट्ये इति पर्युदासान्नोऽपदस्येत्यन्त्यस्वरादिलुक् । २-स्त्रियां टित्त्वान् डीः । व्यञ्जनात्तद्धितस्येति यलोपः । ३-स्त्रियामाप् । ४-च ज़ इति गः, अघोषे प्रथम इति प्रथमः ।