________________
४०६
हैमनूतनलघुप्रक्रिया धावति चैत्रः । देवमिव देववत् पश्यति भूदेवम् । ब्राह्मणेनेव ब्राह्मणवदाचरितमनेन । साधवे इव साधुवदत्तमस्मै । गिरेरिव गिरिवत्पतितः प्रासादात् । गौरिव गवय इत्यादौ तु न क्रियागतं सादृश्यम् ।
तत्र ७।११५३॥ सप्तम्यन्तादिवाथै वत्प्रत्ययो भवति । मथुरायामिव मथुरावत्पाटलिपुत्र प्रासादाः। अक्रियार्थ आरम्भः॥
तस्य ।७।१॥५४॥ षष्ठ्यन्तादिवार्थे वत्प्रत्ययो भवति । चैत्रस्येव चैत्रचन्मैत्रस्य गावः। अक्रियार्थ आरम्भः । योगविभाग उत्तरार्थः। ___भावे त्वतल् ।७।१।५५॥ षष्ठ्यन्ताद् भावे वाच्ये त्वतल् इत्येतौ प्रत्ययौ स्याताम् । भवतोऽस्मादभिधानप्रत्ययाविति व्युत्पत्त्या शब्दस्य प्रवृत्तिनिमित्तं द्रव्यसंसर्गी भेदको गुणो भावः । यदाहुः-यस्य गुणस्य हि भावाद् द्रव्ये शब्दप्रवृत्तिस्तदभिधाने त्वतलाविति ।
तत्र-"जातिगुणाज्जातिगुणे समासकृत्तद्धितात्त सम्बन्धे। डित्थादेः स्वे रूपे त्वतलादीनां विधिर्भवति ॥१॥ तत्र जातिवाचकाज्जातौ यथा गोः शब्दस्य भावो गोत्वं गोता । अत्र गोशब्दजातिरेव भावः । गोरर्थस्य भावो गोत्वं गोता । अत्र गवार्थजातिर्भावः । एवमश्वत्वमश्वतेत्यादि । तलन्तं लित्वात् स्त्रियाम् ।