SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया ४०५ योरीने प्रत्यये परे ऽन्त्यस्वरादेर्लुग् न भवति । आत्मने हित आत्मनीनः । सादेरपि । अनात्मनीनः || पञ्च सर्वविश्वाज्जनात्कर्मधारये |७|१|४१ ॥ पञ्चसर्वविश्व - इत्येतेभ्यः पराज्जनशब्दात्कर्मधारये वर्त्तमानातस्मै हितेऽर्थे ईनः प्रत्ययो भवति । ईयापवादः । पञ्चजनेभ्यः पञ्चजनाय वा हितः पञ्चजनीनः । सर्वजनीनः, विश्वजनीनः ॥ महत् सर्वादिकण |७|१|४२ || महतः सर्वोच्च यो जनशब्दस्तदन्तात्कर्मधारये वर्त्तमानात्तस्मै हिते इकण् प्रत्ययो भवति । महते जनाय हितो माहाजनिकः । सार्वजनिकः ॥ सर्वाण्णो वा | ७|१|४३|| सर्वशब्दात्तस्मै हिते णः प्रत्ययो वा भवति । सर्वस्मै हितः सार्वः । पक्षे ईयः, सर्वयः । इतीयाधिकारः ॥ तस्यार्हे क्रियायां वत् |७|१|५१ || षष्ठ्यन्तादEse वत् प्रत्ययो भवति, क्रिया चेदई भवति । राज्ञोऽहे राजवदवर्तत भरतः । राजत्वयोग्यमित्यर्थः । कुलीनवत् साधुवत् । क्रियायामिति किम् ? शतस्यार्हो देवदत्तः । " स्यादेरिवे |७|१|१२|| स्याद्यन्तादिवार्थे वत्प्रत्ययो भवति । इवार्थः सादृश्यं क्रियागतं बोध्यम् । अश्ववद् ३ - पदत्वान्नाम्नो न इति न लोपः । ४- अश्व इवेत्यर्थः । क्रियायां सादृश्यं न तु चैत्रे |
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy