________________
४०४
हैमनूतनलघुप्रक्रिया प्रत्ययान्तौ निपात्येते । पादार्थमुदकं पाद्यम् । निपातनाये पदादेशो न । अर्षों मूल्यं पूजनं वा । तदर्थमध्यं रत्नादि ।।
ण्योऽतिथेः ।।१।२४॥ अतिथिशब्दात्तदर्थे ण्यः प्रत्ययो भवति । अतिथ्यर्थमातिथ्यम् ॥ .
तस्मै हिते ७।१।३५॥ चतुर्थ्यन्तानाम्नो हितेऽर्थे यथाविहितमीयादयः प्रत्यया भवन्ति । हित उपकारकः । वत्सेभ्यो हितो वत्सीयो गोधुक् । सादेरपि, अवत्सीयः। पित्रीयः॥
प्राण्यङ्गरथखलतिलयववृषब्रह्ममाषाद्यः ।७।१।३७॥ प्राण्यङ्गवाचिभ्यो रथादिभ्यश्च चतुर्थ्यन्तेभ्यो हितेऽर्थे यः प्रत्ययो भवति । दन्तेभ्यो हितं दन्त्यम् । स्थाय हिता रथ्या भूमिः। खलाय हितं खल्यम् । तिल्यो वायुः । यव्यस्तुषारः। वृष्यं क्षीरपाणम् । ब्रह्मण्यो देशः। माघ्यो वातः । सादेरपि, राजदन्त्यम् ॥ . .
भोगोत्तरपदात्मभ्यामीन: ७।१॥४०॥ भोगोत्तरपदादात्मनशब्दाच्च तस्मै हितेऽर्थे ईनः प्रत्ययो भवति । मातृभोगोय हितो मातभोगीणः।
ईनेऽध्वात्मनोः ७॥४॥४८॥ अध्वन् आत्मन् इत्येत३-वत्साय न हित इत्यर्थः । ४-ऋतो र इति रः । . १-अनोऽट्य इत्यन्त्यस्वरादिलोपनिषेधः । २- रघुवर्णादिति णः ।