SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघु प्रक्रिया ४०३ पथ्यतिथिवसतिस्वपतेरेयण् | ७|१|१६|| एभ्यस्तत्र साधौ एयण प्रत्ययो भवति । पथि साधु पाथेयम् । आतिथेयम्, वासतेयम्, स्वापतेयं धनम् ॥ भक्ताण्णः |७|१|१७|| भक्तशब्दात्तत्र साधावर्थे णः प्रत्ययो भवति । भक्ते साधु भक्ति: शालि:, भाक्तास्तण्डुलाः ॥ पर्षदो यणौ |७|१|१८|| पर्षच्छब्दात्तत्र साधौ ण्यणेत्येतौ प्रत्ययौ भवतः । पर्षदि साधुः पार्षद्यः, पार्षदः । परिषदोऽपीष्यते । पारिषद्यः पारिषदः ।। सर्वजनापण्येन |७|१|१९|| सर्वजनशब्दात्तत्र साधौ ण्य ईनञ् इत्येतौ प्रत्ययौ भवतः । सार्वजन्यः, सार्वजनीनः ॥ प्रतिजना देरीनं | ७|१|२०|| प्रतिजनादिभ्यस्तंत्र साधावीनञ् प्रत्ययो भवति । प्रतिजने साधुः प्रातिजनीनः । वैश्वजनीनः, माहाजनीनः, ऐदंयुगीनः, सांयुगीनः ॥ कथादेरिकण | ७|१|२१|| कथादिभ्यस्तत्र साधावर्थे इकण् प्रत्ययो भवति । कथायां साधुः काथिकः । वैतण्डिकः । वृत्तौ साधु वार्त्तिकम् । सांग्रामिकम्, सांघातिकम् ॥ पायायें |७|१|२३|| पाद्य, अर्घ्य इत्येतौ तदर्थे य २- नोsपदस्येत्यन्त्यस्वरादिलोपः । "
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy