________________
हैमनूतनलघुप्रक्रिया
४०७
रूपस्य भावो रूपत्वं रूपता, शुक्लस्य भावः शुक्लत्वं शुक्लता । अत्र रूपादिगुणजातिर्भावः । कत्वं खत्वमित्यादौ भिन्नव्यक्तिवृत्तिर्जातिर्भावः । कवर्गत्वमित्यादौ ककारादिवर्गव्यक्तिवृत्तिर्जातिः संहतिः । गुणवचनेभ्यस्तु शुक्लस्य पटस्य भावः शुक्लत्वमित्यादौ गुण एव भावः । पट्वादयोऽपि गुणा एवेति पटुत्वमित्यादी गुण एव भावः । राजपुरुषत्वमित्यादौ समासस्थले स्वस्वामिभावः सम्बन्ध एवं भावः । पाचकत्व - मित्यादौ कृदन्तस्थले क्रियाकारकभावो भावः । औपगवत्वमित्यादौ तद्धितस्थलेऽपि उपगुसम्बन्धो भावः । डित्थादिस्तु यदृच्छाशब्द इति डित्थत्वमित्यादौ शब्दस्वरूपमेव यः शब्दः सोऽर्थ इत्येवं शब्दार्थयोरभेदाध्यवसायेन भावः । एवमेकव्यक्तिस्थले देवदत्तत्वमित्यादौ सूर्यत्वमाकाशत्वमित्यादौ च शब्दस्वरूपमेव भावः || त्वान्तं नपुंसकम् ।
नस्तत्पुरुषादबुधादेः | ७|१|५७ || तस्य भावे नञ्पूर्वात् तत्पुरुषाद् बुधाद्यन्तवर्जिताश्वतलौ भवतः । ट्यणाद्यपवादः । न शुक्लोऽशुक्लस्तस्य भावोऽशुक्लत्वमशुक्लता । वर्णे ट्यण् न भवति । ट्यणन्तेन समासे त्वशौक्ल्यमित्यपि । एवमपतेर्भावः कर्म वाऽपतित्वमपतिता । टयणन्तेन समासे तु अनाधिपत्यम् । तत्पुरुषादिति किम् ? न विद्यते पतिरस्यापतिग्रमस्तस्य भावः कर्म वा आपत्यम् । अबुधादेरिति किम् ? न बुधोऽबुधस्तस्य भाव आबुध्यम्, न चतुरोऽचतुर