SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ४०१ वामाद्यादेरीन:७।१।४॥ वामादिपूर्वात् धुरन्ताद् द्वितीयान्ताद्वहत्यर्थे ईनः प्रत्ययो भवति । वामधुरां वहति वामधुरीणः । सर्वधुरीणः । केवलादपि, धुरीणः॥ हलसीरादिकण् ।७।१।६॥ हलसीर इत्येताभ्यां द्वितीयान्ताभ्यां वहत्यर्थे इकण् प्रत्ययो भवति । हलं वहति हालिकः, सैरिकः ॥ शकटादण ७१७॥ शकटशब्दाद् द्वितीयान्ताद्वहत्यर्थेऽण् प्रत्ययो भवति । शकटं वहति शाकटो मौः॥ . . धनगणाल्लब्धरि ७१९॥ द्वितीयान्ताद् धन शब्दाद् गणशब्दाच्च लब्धर्यर्थे यः प्रत्ययो भवति । धनं लेब्धा धन्यः, गणं लब्धा गण्यः॥ हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागाहपत्यजन्यधर्म्यम् ।७।१।११॥ हृद्यादयः शब्दा यथास्वमर्थविशेषेषु यप्रत्ययान्ता निपात्यन्ते ॥ ... हृदयस्य हल्लासलेखाण्ये १९४॥ हृदयशब्दस्य लासलेखयोरुत्तरपदयोरणि ये च प्रत्यये परे हदित्ययमादेशो भवति । हृदयस्य प्रियं हृद्यमौषधम् । हृयो दिशः, हृदयस्य बन्धनं, हृयो वशीकरणमन्त्रः। पदमस्मिन् २-वामा धूः समासान्ते सत्याप् । ३-रघुवर्णादिति णः ।..... १-शीले तृन् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy