SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ४०० हैमनूतनलघुप्रक्रिया छेदादेर्नित्यम् ।६।४।१८२॥ छेदादिभ्यो द्वितीयान्तेभ्यो नित्यमर्हत्यर्थे यथाविहितमिकणादयः प्रत्यया भवन्ति । छेदं नित्यमर्हति छैदिकः, भैदिकः ॥ विरागाद्विरङ्गश्च ।।४।१८३॥ विरागशब्दाद् द्वितीयान्तानित्यमर्हत्यर्थे इकण् प्रत्ययस्तत्सन्नियोगे च विरागशब्दस्य विरङ्गादेशो भवति । विरागं नित्यमर्हति वैरङ्गिकः ॥ शीर्षच्छेदाद्यो धा ।६।४।१८४॥ शीर्षच्छेदाद् द्वितीयान्तानित्यमहत्यर्थे यः प्रत्ययो वा भवति । पक्षे इकण् । शीर्षच्छेदं नित्यमर्हति शीर्षच्छेद्यः शैर्षच्छेदिकऔरः । इत्यादर्थाः प्रत्ययाः। अथ याधिकारः॥ ___ वहति रथयुगप्रासङ्गात् ७।१।२॥ द्वितीयान्तेभ्यो स्थयुगप्रासङ्ग इत्येतेभ्यो वहत्यर्थे यः प्रत्ययो भवति । रथं वहति रथ्यः। द्वौ रथौ वहति द्विरथ्यः। युगं वहति युग्यः, प्रासङ्गं वहति प्रासङ्गयः॥ धुरो येयण ॥७॥१॥३॥ धुर इत्येतस्माद् द्वितीयान्ताद्वहस्प] य एयण इत्येतो प्रत्ययौ. भवतः । धुरं वहति धुर्यः, धौरेय . १-तद्धितार्थे समासः । अवर्णेवणेत्यलोपः । द्विगोरनपत्वेः इति तु न, अप्राग्जितीयत्वात् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy