SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३९९ हैमनूतनलघुप्रक्रिया विहितं प्रत्ययो भवति प्रथमान्तं चेन्मानं भवति प्रस्थो मानमस्य प्रास्थिको राशिः। द्रोणो मानमस्य द्रौणिकः ॥ - विंशत्यादयः ६१७३|| विंशत्यादयः शब्दा नाम्नि विषये तदस्य मानमित्यर्थे साधवो भवन्ति । द्वौ दशतौ मानमेषां संख्येयानामस्य वा संख्यानस्य विंशतिः। द्वेर्दशदर्थे विभावः, शतिश्च प्रत्ययः। त्रयो दशतो मानमेषां त्रिंशत् । र्दशदर्थे त्रिभावः, शच्च प्रत्ययः। एवं चत्वारिंशदादिकः प्रयोगोऽप्यूह्यः॥ पञ्चदशद्वर्गे वा ।६।४।१७५॥ पञ्चद्दशदित्येतौ शब्दो तदस्य मानमित्येतस्मिन् विषये वर्गे वाच्ये डत्प्रत्ययान्तौ निपात्येते वा । पक्षे कः। पञ्च मानमस्य वर्गस्य पञ्चद्वर्गः, पञ्चको वर्ग: । दशद्वर्गः, दशको वा ॥ __तमहति ।६।४।१७७॥ द्वितीयान्तादईदर्थे यथाविहितमिकणादयः प्रत्यया भवन्ति । श्वेतच्छत्रमर्हति चैतच्छत्रिकः । एवं वैषिक-बास्त्रिकादयः। दण्डादेर्य ।६।४।१७८॥ दण्डादिभ्यो द्वितीयान्तेभ्योऽहत्यर्थे यः प्रत्ययो भवति । इकणोऽपव दः। दण्डमर्हति दण्ड्यः । वध्यः, इभ्यः ॥ .
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy